पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Kaamanaa - Kumaari)

RADHA GUPTA, SUMAN AGARWAL & VIPIN KUMAR

Index

Kaamanaa - Kaampilya  (Kaamanaa/desire,  Kaamaruupa, Kaamaakshi, Kaamaakhyaa, Kaameshwari, Kaamodaa, Kaampilya etc.)   

Kaampilya - Kaartaveerya (Kaampilya, Kaamboja, Kaayastha, Kaayaavarohana, Kaarana/cause, Kaaru, Kaaruusha, Kaartaveerya etc.)

Kaartaveerya - Kaartikeya  (Kaartaveerya, Kaartika, Kaartikeya etc.)  

Kaartikeya - Kaarshni  ( Kaartikeya, Kaarpaasa/cotton, Kaarya/action etc.)  

Kaala - Kaalaa  (Kaala/time )  

Kaalaa - Kaalanaabha ( Kaalakaa, Kaalakuuta, Kaalakeya, Kaalachakra, Kaalanjara, Kaalanaabha etc.)

Kaalanaabha - Kaalaraatri  (Kaalanemi, Kaalabhairava, Kaalayavana, Kaalaraatri etc. )    

Kaalaraatri - Kaalindi ( Kaalasuutra, Kaalaagni, Kaalikaa, Kaalindi etc.)     

Kaalindi - Kaavya  (kaaliya, Kaali, Kaaleya, Kaaveri, Kaavya etc. )

Kaavya - Kaashmeera  ( Kaavya, Kaasha, Kashiraaja, Kaashi etc. )  

Kaashmeera - Kaasaara  ( Kaashmeera, Kaashya, Kaashyapa, Kaashthaa, Kaashtheelaa etc.)  

Kimdama - Kiraata (Kitava/gamble, Kinnara, Kimpurusa, Kiraata etc.)   

Kirichakra - Keertimati (Kireeta, Kishkindhaa, Keekata, Keeta, Keerti etc.)

Keertimati - Kuksheyu (Keertimaan, Keertimukha, Kukkuta/hen, Kukshi/belly etc.)    

Kukhandikaa - Kutilaaksha   (Kumkuma, Kuja/mars, Kujambha, Kunjara/elephant, Kutilaa etc.)   

Kutilaaksha - Kundala  (Kutumba, Kuthaara, Kunda, Kundala/earring etc.)  

Kundalaa - Kunda  ( Kundalini, Kundina, Kutupa, Kutsa, Kunti, Kuntee etc. )    

Kunda - Kubera  ( Kunda, Kundana/gold, Kubera etc.)   

Kubera - Kumaari (Kubjaa, Kubjaamraka, Kumaara, Kumaari etc. )

 

 

कुतुप/कुतप

टिप्पणी

प्रयोगस्त्रिविधो ह्येषां विज्ञेयो नाटकाश्रयः ।
ततं चैवावनद्धं च तथा नाट्यकृतोऽपरः ॥ ३॥
ततः कुतपविन्यासो गायनः सपरिग्रहः ।
वैपञ्‍चिको वैणिकश्‍च वंशवादस्तथैव च ॥ ४॥
मार्दङ्गिकः पाणविकस्तथा दार्दुरिको बुधैः ।
अवनद्धविधावेष कुतपः समुदाहृतः ॥ ५ ॥ ११/२२
उत्तमाधममध्याभिस्तथा प्रकृतिभिर्युतः ।
कुतपो नाट्ययोगे तु नानादेशसमाश्रयः ॥ ६॥

डा. बी.वी. राजारामः नाट्यशास्त्रोपरि स्वव्याख्याने  कुतुपस्य अर्थं संघातं, आर्केस्ट्रा करोति। अयमर्थं उचितमेव अस्ति। डा. विमला मुसलगाँवकरः(भारतीय संगीत शास्त्र का दर्शनपरक अनुशीलन) वंश, वेणु, अवनद्ध वाद्यानां अर्थं एवंप्रकारेण करोति यत् वेणु, वंशादि वाद्यानां वादनहेतु प्राणानां फूत्कारस्य आवश्यकता भवति। तदैव तेभ्यः संगीतं प्रस्फुरति। अवनद्ध वाद्यानां वादनहेतु तालस्य आवश्यकता भवति। देहस्य ये कोशाः अपेक्षाकृत सुप्ताः सन्ति, तेषां स्फुरणं तालेभिः भवति। तत वाद्यानां (वीणा इत्यादि) वादने संगीतस्य प्रभावं जड चेतनायामुपरि स्वयमेव भवति, इति प्रतीयते। यत्र गायकस्य वाद्यैः सार्द्धं एकरसता भवति, तस्य संज्ञा कुतुपं भवति ।

पुराणेषु कुतुप शब्दः पितृश्राद्ध हेतु कालविशेषस्य वाचकः अस्ति। पुराणेषु कुतुप अथवा कुतप शब्दस्य निरुक्ति एवं प्रकारेण भवति यत् कु पाप, तप तापन। पापानां तापनं कुतुपं भवति। स्कन्द पुराणे ६.२७१.३७८ कथा अस्ति यत् संवर्त्त मुनिः कुतप काले एव भिक्षां गृह्णाति। अत्र प्रश्नः भवति - किं कुतप काले भिक्षा प्राप्ति हेतु संवर्त स्थिति, स्वचेतनायाः संवरणम्, अन्तर्मुखीकरणं आवश्यकं भवति। यदि नाट्यशास्त्रानुसारेण चिन्तनं कुर्वन्ति, तदा संवर्त स्थितितः व्युत्थानं कुतपस्य अवस्था भवति। संगीत, आर्केष्ट्रा पाप मुक्तावस्था अस्ति। यावत् पापानां विद्यमानता भवति, तावत् संवर्त स्थिति अपि न भविष्यति, इन्द्रियाणां अन्तर्मुखीकरणं सफलं न भविष्यति (आधुनिक विज्ञानानुसारेण सर्व एव द्वाराणां उद्घाटनं बहिर्मुखी एव कर्तुं शक्यन्ते, न अन्तर्मुखी)। अतः अयं प्रश्नं अनुत्तरितमेव अस्ति यत् किं पूर्वं भवति संवर्तनम् अथवा संगीतं आर्केस्ट्रा। स्कन्द पुराणे ६.११.४४ कथा अस्ति यत्  कुतुप काले स्नानेन शंख मुनेः कर्तित हस्तानां पुनः वर्धनम् जातम्। स्तुपः अपि कुतुपस्य समानार्थकं भवति, अयं प्रतीयते। स्तुपस्य अर्थं उच्छ्रायं भवति। अतः यदा शंख मुनिः हस्तरहितं भवति, तदा तस्य साधनायाः विस्तारं केवल ऊर्ध्वाधोमुखी अस्ति। यदा सः कुतुप काले स्नानं करोति, तदा तस्य साधनायाः विस्तारः तिर्यक् दिशासु अपि भवति, सः स्वप्रभावस्य विस्तारं सर्वसमाजे अपि कर्तुं शक्नोति। यावत् वयं पापयुक्ताः भवन्ति, तावत् समाजे अवतरणं नैव कर्तव्यम्। केवलं चक्रवर्ती राजा एव राजा भवितुं समर्थः अस्ति।

कुतुप काले यः श्राद्धं भवति, तस्मिन् अष्ट द्रव्याणां उपयोगं विहितमस्ति - मध्याह्नः, खड्गपात्रं, कालकम्बलः/नैपालकम्बलः, रूप्यं/रुक्मं, कुशाः/दर्भाः, तिलाः, गावः, दौहित्रं इति। एषां भौतिक द्रव्याणां कः सांकेतिक अर्थमस्ति, अयं प्रश्नः न्यूनाधिक रूपेण अनुत्तरणीयमेव अस्ति। तिल शब्दः तिरः स्थितिं प्रति संकेतं करोति यत्र बहिर्मुखी चेतनायाः अन्तर्मुखीभवनं भवति। अयं अन्तर्मुखीभवनं आकस्मिकं न भवति, अपितु क्रमिकरूपेण भवति। अस्मिन् जगति त्रि विमानां अस्तित्वमस्ति। तेभिः त्रिविमाभिः यदा एकस्य विमायाः लोपं भवति, तदा अभ्रक, ग्रेफाईट इत्यादि द्वि-विमीय त्वक् प्रकारस्य द्रव्याणां उदयं भवति। यदा द्वि विमानां लोपं भवति, तदा एक-विमीय कुश आदि तृण द्रव्याणां उदयं भवति। यदा त्रयाणां अपि विमानां लोपं भवेत्, तर्हि न कस्यापि भौतिक द्रव्यस्य अस्तित्वं भवति। विमानां लोपनस्य किं लाभं अस्ति। आधुनिक भौतिक विज्ञानानुसारेण यदा तन्त्रे गति हेतु स्थानं संकुचितं भवति, तदा तस्य तन्त्रस्य ऊर्जायाः अव्यवस्था, एण्ट्रांपी न्यूनतर भवति। लोके कथा भवति यत् कोपि राजा स्वभ्राष्ट्रस्य पाक हेतु कस्यापि नागरिकस्य चुनावं करोति। स जनः भ्राष्ट्रमध्ये तिष्ठति। भ्राष्ट्रस्य पाके चिरं कालं व्यतीतं भवति संवत्सरमेव। एकः जनः यदा भ्राष्ट्रे तिष्ठति, सः स्वपरितः तिलानां विकिरणं करोति एवं तदा तिष्ठति। तदा भ्राष्ट्रस्य पाकं त्वरितं एव भवति। अयं संकेतः यत् यदा तिलेभिः चेतनायाः अन्तर्मुखीकरणं भवति, तदा चेतनायाः पाकं त्वरितं एव भविष्यति।

कुतुपस्य संदर्भे बौधायन गृह्यसूत्रे केषांचित् द्रव्याणां उपयोगं उल्लिखितं भवति। तत्र तिलानां एकं उपयोगं अपां संसर्जनाय अस्ति। पुराणेषु तिलानां प्राकट्यं विष्णोः स्वेदात् भवति। कुशानां प्राकट्यं विष्णोः रोमभ्यः भवति। निहितार्थं अन्वेषणीयः।

श्राद्धकरणे सार्वत्रिक उल्लेखः भवति यत् आमन्त्रित द्विजाः पितॄणां प्रतिनिधयः सन्ति। श्राद्धकाले कुशाग्रेषु पितरः आगत्य निवसन्ति, अयमपि उल्लेखः भवति। यत्र ऊर्जायाः अव्यवस्था, एण्ट्रांपी न्यूनतम भविष्यति, तत्रैव पितॄणां अवतरणं संभवं भवति, अयं प्रतीयते।

प्रथम लेखनम् -   श्रावण कृष्ण चतुर्थी, विक्रम संवत् २०७३ (२३-७-२०१६ई.)

 

बौधायन गृह्यसूत्र अनुसारेण

न त्वेवानष्टकस्स्यात्।६१।
सिकता श्राद्धे पवित्रं यद्यध्यवसनाय यद्यन्ववकिरणाय ।६२।
कुशाः कुतपो दूर्वा इति श्राद्धे पवित्रं यद्यासनाय यदि परिस्तरणाय यद्युत्पवनाय ।६३।
तिलाश्श्राद्धे पवित्रं यदि दानाय यदि भोजनाय यद्यपां संसर्जनाय ।खङ्गः श्राद्धे पवित्र यदि मांसं यद्यस्थिमयं पात्रम्।६५।
दौहित्रः श्राद्धे पवित्रं यदि भोक्ता यदि परिवेष्टा यद्यभिश्रावयिता ।६६।
इत्यष्टकाहोमो व्याख्यातः ।६७।

 

स्तूप, क उच्छ्राये । इति कविकल्पद्रुमः ॥ (चुरा०

पर०-सक०-सेट् ।) षष्ठस्वरी । उच्छ्रायो राशी-

वरणम् । स्तूपयति धान्यं कृषकः । तुष्टूपयि-

षति । इति दुर्गादासः ॥

स्तूप, य इर उच्छ्राये । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-सक०-सेट् ।) षष्ठस्वरी । य, स्तूप्यति । इर्, अस्तूपत् अस्तूपीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । अतुस्तूपत् । इति

दुर्गादासः ॥

स्तूपः, पुं, (स्तूयते इति । स्तु + स्तुवोदीर्घश्च । उणा० ३ । २५ । इति पः दीर्घश्च ।) मृदादिकूटः । राशीकृतमृत्तिकादिः । इति पुंलिङ्गसंग्रहे अमरः । ३ । ५ । १९ ॥ संघातः । निष्प्रयोजनम् । बलम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

 

 

कुतुप का अर्थ है कुप्पी (Thistle kip, Funnel)। मध्याह्न (स्थानीय प्रत्यक्ष समय) के समय किसी स्तम्भ (शंकु, या नर)  सबसे छोटी छाया होती है। उसके दोनों तरफ छाया धीरे धीरे बढ़ती है। मध्याह्न से समान अन्तर पर समय विन्दु लेने से उसके बीच छाया का पथ (locus) कुतुप जैसा होता है। अतः मध्याह्न से १ घटी पूर्व से १ घटी बाद तक का समय कुतुप मुहूर्त्त कहते हैं।
 
Arun Kumar Upadhyay, IPS (Retd) C/47, (near airport), Palaspalli, Bhubaneswar-751020 0674-2591172, 9437034172/9583492387
 

धन्यवाद। हो सकता है कुतुबमीनार का मूल यही हो। - विपिन

 कुतुप आकार की छाया (जैसे ११ बजे से एक बजे तक) की दिशा को २ भागों में बांटने के लिये दोनों किनारों से वृत्त का चाप खींचते हैं। दो वृत्तों का मिला भाग मीन जैसा होता है। इसकी दिशा उत्तर दक्षिण होती है। उत्तर दक्षिण दिशा जानने के लिये कुतुप के विभाजक मीन की दिशा लेते हैं, अतः यह कुतुप-मीन है। इसी के जैसा काम चुम्बकीय कम्पास से भी होता है अतः उसे कुतुब-नुमा कहते हैं। - Arun Kumar Upadhyay,

 -

सिद्धान्त-दर्पण-त्रिप्रश्न खण्ड ()

मूल लेखक-श्री चन्द्र शेखर सिंह सामन्त, व्याख्याकार-अरुण कुमार उपाध्याय

त्रिप्रश्नाधिकारः

सप्तमः प्रकाशः-शङ्कुच्छायादिवर्णनम्

000webhost logo