पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(Kaamanaa - Kumaari)

RADHA GUPTA, SUMAN AGARWAL & VIPIN KUMAR

Index

Kaamanaa - Kaampilya  (Kaamanaa/desire,  Kaamaruupa, Kaamaakshi, Kaamaakhyaa, Kaameshwari, Kaamodaa, Kaampilya etc.)   

Kaampilya - Kaartaveerya (Kaampilya, Kaamboja, Kaayastha, Kaayaavarohana, Kaarana/cause, Kaaru, Kaaruusha, Kaartaveerya etc.)

Kaartaveerya - Kaartikeya  (Kaartaveerya, Kaartika, Kaartikeya etc.)  

Kaartikeya - Kaarshni  ( Kaartikeya, Kaarpaasa/cotton, Kaarya/action etc.)  

Kaala - Kaalaa  (Kaala/time )  

Kaalaa - Kaalanaabha ( Kaalakaa, Kaalakuuta, Kaalakeya, Kaalachakra, Kaalanjara, Kaalanaabha etc.)

Kaalanaabha - Kaalaraatri  (Kaalanemi, Kaalabhairava, Kaalayavana, Kaalaraatri etc. )    

Kaalaraatri - Kaalindi ( Kaalasuutra, Kaalaagni, Kaalikaa, Kaalindi etc.)     

Kaalindi - Kaavya  (kaaliya, Kaali, Kaaleya, Kaaveri, Kaavya etc. )

Kaavya - Kaashmeera  ( Kaavya, Kaasha, Kashiraaja, Kaashi etc. )  

Kaashmeera - Kaasaara  ( Kaashmeera, Kaashya, Kaashyapa, Kaashthaa, Kaashtheelaa etc.)  

Kimdama - Kiraata (Kitava/gamble, Kinnara, Kimpurusa, Kiraata etc.)   

Kirichakra - Keertimati (Kireeta, Kishkindhaa, Keekata, Keeta, Keerti etc.)

Keertimati - Kuksheyu (Keertimaan, Keertimukha, Kukkuta/hen, Kukshi/belly etc.)    

Kukhandikaa - Kutilaaksha   (Kumkuma, Kuja/mars, Kujambha, Kunjara/elephant, Kutilaa etc.)   

Kutilaaksha - Kundala  (Kutumba, Kuthaara, Kunda, Kundala/earring etc.)  

Kundalaa - Kunda  ( Kundalini, Kundina, Kutupa, Kutsa, Kunti, Kuntee etc. )    

Kunda - Kubera  ( Kunda, Kundana/gold, Kubera etc.)   

Kubera - Kumaari (Kubjaa, Kubjaamraka, Kumaara, Kumaari etc. )

 

 

कीर्ति

 

संदर्भ

*श्रेयो॑ वन्वा॒नो व॒युना॑नि वि॒द्वान् की॒र्तिं ब॒हुभ्यो॒ वि ह॑र द्विरा॒जे शौ.अ. 5.20.9

*की॒र्तिं च॒ वा ए॒ष यश॑श्च गृ॒हाणा॑मश्नाति॒ यः पूर्वोऽति॑थेर॒श्नाति॑ शौ.अ. 9.8.5

*यथा॒ सूर्यो॑ अति॒भाति॒ यथा॑स्मि॒न् तेज॒ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥17॥

यथा॒ यश॑श्च॒न्द्रम॑स्यादि॒त्ये च॑ नृ॒चक्ष॑सि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥ ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ पृथि॒व्यां यथा॒स्मिन् जा॒तवे॑दसि। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ क॒न्यायां॒ यथा॒स्मिन्त्संभृ॑ते॒ रथे॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ सोमपी॒थे म॑धुप॒र्के यथा॒ यशः॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशो॑ऽग्निहो॒त्रे व॑षट्का॒रे यथा॒ यशः॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशो॒ यज॑माने॒ यथा॒स्मिन् य॒ज्ञ आहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॒ यशः॑ प्र॒जाप॑तौ॒ यथा॒स्मिन् प॑रमे॒ष्ठिनि॑। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥

यथा॑ दे॒वेष्व॒मृतं॒ यथै॑षु स॒त्यमाहि॑तम्। ए॒वा मे॑ वर॒णो म॒णिः की॒र्तिं भूतिं॒ नि य॑च्छतु। तेज॑सा मा॒ समु॑क्षतु॒ यश॑सा॒ सम॑नक्तु मा॥ शौ.अ. 10.3.17-25

*आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च - - - - तानि॒ सर्वा॒ण्यप॑ क्रामन्ति ब्रह्मग॒वीमा॒ददा॑नस्य जिन॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य। - शौ.अ. 12.6.3

*की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ शौ.अ. 13.5.1

*ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च। य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑ शौ.अ. 13.6.1

*श्र॒द्धा पुँ॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। भू॒तं च॑ भवि॒ष्यच्च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥(आग्नेयी दिशा?) - शौ.अ. 15.2.8

*उ॒षाः पुं॑श्च॒ली मन्त्रो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। अ॒मा॒वा॒स्या च पौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥ (नैर्ऋत दिशा?) - शौ.अ. 15.2.16

*इरा पुं॑श्च॒ली हसो॑ माग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। अह॑श्च॒ रात्री॑ च परिष्क॒न्दौ मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥(वायव्य दिशा?) - शौ.अ. 15.2.24

*वि॒द्युत् पुंश्च॒ली स्त॑नयि॒त्नुर्मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौ प्रव॒र्तौ क॑ल्म॒लिर्म॒णिः। श्रु॒तं च॒ विश्रु॑तं च परिष्क॒न्दो मनो॑ विप॒थम्। मा॒त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौ वातः॒ सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑ की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑॥ (ईशान दिशा?) शौ.अ. 15.2.32

*आयुः॑ प्रा॒णं प्र॒जां प॒शुं की॒र्तिं द्रवि॑णं ब्रह्मवर्च॒सम्। मह्यं॑ द॒त्त्वा व्र॑जत ब्रह्मलो॒कम्॥ - शौ.अ. 19.71.1

*वज्रा॑पव॒साध्यः॑ की॒र्तिर्म्रि॒यमा॑ण॒माव॑हन्। मह्य॒मायु॑र्घृतं पयः॑॥ - शौ.अ. 20.48.3

*तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। तद् द्वादशाहं हुत्वा कीर्तिं यशः प्रजापतिम् अमृतं तद् उदाजहार। - जै.ब्रा. 1.37

*यो ह वा एतस्मात् साम्न इयाद् दुश्चर्मा वा स्यात् पापी वैनं कीर्त्तिर् अभिवदेत्। - जै.ब्रा. 1.169

*अथ यद् एनान् पापी कीर्त्तिर् अनुतिष्ठति व्यगासिषुर् इति। - जै.ब्रा. 1.264

*यद् इदं त्वम् इयत्प्रियः कीर्त्तेर् इयत्प्रियश् चक्षुष इयत्प्रियस् सनेर् असि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। प्रियम् इति। - जै.ब्रा. 1.271

*अथ होचुर् इन्द्रद्युम्नं भाल्लवेयं यद् इदं तवोपर्युपर्य् अन्यान् कीर्त्तिश् चरति विवचनम् एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। कि त्वं तद् धूर्षूपास्स इति। यश इति। - जै.ब्रा. 1.271

*प्राणो वै गायत्री प्राणो वै प्रियम्। - - - प्रिय एव प्राण आत्मन एवं प्रिय एव स कीर्त्तेर् एवं प्रियश् चक्षुष एवं प्रियस् सनेर् भवतीति। - जै.ब्रा. 1.272

*तद् उ होवाचारुणिर् गायत्रीं वा अहं सर्वाणि सवना निवहन्तीं वेद तस्मान् म आ जरसं यशः कीर्त्तिर् न व्येतीति। - जै.ब्रा. 1.289

*प्राणो वै गायत्रः। - - - -तस्मात् त्रिवृतैव शीर्ष्णा प्रतिपद्यम् अथ पञ्चदशेन पक्षेणाथ सप्तदशेनाथैकविंशेन पुच्छेनाथ पञ्चविंशेनात्मना। तद् ऊर्ध्वाः कीर्तिम् ऊर्ध्वा श्रियम् ऊर्ध्वा स्वर्गं लोकं रोहन्ति। - जै.ब्रा. 2.18

*ब्रह्मैव तत् क्षत्रे प्रतिष्ठापयन्ति। - - - - अजय्यां ह वै कीर्तिम् अजय्यां श्रियम् अजय्यं स्वर्गं लोकं जयति य एवं वेद। - जै.ब्रा. 2.133

*अथ श्रुधीयं कीर्तिमत् साम। पुण्यैनं कीर्तिर् उत्तस्थिवांसम् अनूत्तिष्ठाद् इति। - जै.ब्रा. 2.195

*स यो हास्य एतद् अत्यायु नाम पदं वेदात्य् एवान्यान् प्रजया पशुभि श्रिया कीर्त्यायुषा भवति। - जै.ब्रा. 2.258

*स यो हास्या एतत् पृश्नि शबलं पदं वेद पृश्निर् एव प्रजया पशुभि श्रिया कीर्त्यायुषा भवति। - जै.ब्रा. 2.259

*ऊर्ध्वा हैवास्य कीर्तिर् ऊर्ध्वा श्रीर् ऊर्ध्वं स्वर्गं लोकम् एति य एवं वेद। - जै.ब्रा. 2.352

*तं होचुस् सुपर्णाविदो गा इति। का कीर्तिश् चिद् गवाम् इति होवाच। एषैव कीर्तिर् गवाम् इति तस्य हेन्द्रो गलम् उत्पीळयन्न् उवाच गोष्व् एवाहं किल तवोषुषो मुखम् इति। - जै.ब्रा. 2.440

*कीर्तिर् होतारम् (अनु) षड्.ब्रा. 2.8

000webhost logo