पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Pitaa to Puurnabhadra  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Pitaa- Pitriyaana ( words like  Pitaa / father, Pitaamaha / grandfather etc. )

Pitrivartee - Pishangajata ( Pinaaki, Pipeelikaa / ant, Pippalaa, Pippalaada etc.)

Pishaacha - Peevari ( Pishaacha, Pishta / ground, Peetha / chair, Peeta / yellow, Peevari etc.)

Punshchalee - Punyajana ( Punjikasthalaa, Pundareeka, Pundra, Punya etc.)

Punyajani - Punarvasu ( Punyasheela, Putra / son, Putri / Putree / daughter, Punarvasu etc.)

Punnaaga - Pureesha (Pura / residence, Puranjana, Puranjaya, Purandara, Puraana, Pureesha etc. ) 

Puru - Purusha ( Puru, Purukutsa, Purusha / man etc. )

Purusha - Pulaka  ( Purushasuukta, Purushaartha, Purushottama, Puruuravaa, Purodaasha, Purohita etc.)

Pulastya - Pulomaa ( Pulastya, Pulinda, Pulomaa etc.)

Pulkasa - Pushkaradweepa (  Pushkara etc. )

Pushkaraaksha - Pushpa ( Pushkaraavarta, Pushkarini /pushkarinee, Pushkala, Pushti, Pushpa / flower etc.)

Pushpaka - Pushya ( Pushpaka, Pushpadanta, Pushpabhadra, Pushya etc.)

Pushyamitra - Puujaa (Puujaa / worship)

Puutanaa - Puurnabhadra (  Puurana, Puuru /pooru, Puurna / poorna / complete, Puurnabhadra /poornabhadra etc.)

 

 

पुण्डरीक

 

संदर्भ

*आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑। ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इमे॥(दे. अग्निः) - ऋ. १०.१४२.८

*आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहतु पु॒ष्पिणीः॑। उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्र॒दो वा॑ पु॒ण्डरी॑कवान्॥ - शौ.अ. ६.१०६.१

*पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्। तस्मि॒न् यद् य॒क्षमा॑त्म॒न्वत् तद् वै ब्र॑ह्म॒विदो॑ विदुः॥ - शौ.अ. १०.८.४३

*राजसूय : द्वादशपुण्डरीका भवन्ति, द्वादश मासाः संवत्सरः, संवत्सरमेवाप्त्वावरुन्द्धे। - मै.सं. ४.४.७

*यत्रामर्त्या अप्स्व् अन्तस् समुद्रे तुरूण्यरीतुर्वशी? पुण्डरीका। तत् परेताप्सरसः प्रतिबुद्धा अभूतन॥ - पै.सं. १३.४.४

*दशपेयः : स॒द्यो दी॑क्षयन्ति स॒द्यः सोमं॑ क्रीणन्ति पुण्डरिस्र॒जां प्र य॑च्छति द॒शभि॑र्वत्सत॒रैः सोमं॑ क्रीणाति दश॒पेयो॑ भवति तै.सं. १.८.१८.१

*अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते आप.श्रौ.सू. १८.२०.१४

*इन्द्रोवृत्रमहंस्तस्येयं चित्राण्युपैद्रूपाण्यसौ नक्षत्राणामवकाशेन पुण्डरीकञ्जायते यत् पुष्करस्रजं प्रतिमुञ्चते वृत्रस्यैव तद्रूपं क्षत्रम् प्रतिमुञ्चते। - तां.ब्रा. १८.९.६

*एतेन वै क्षेम धृत्वा पौण्डरीक इष्ट्वा सुदाम्नस्तीर उत्तरे। - तां.ब्रा. २२.१८.७

*राजसूय -- तथोऽएवैष एतत्सवितृप्रसूत एवानुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।६। अथ सारस्वतं चरुं निर्वपति। वाग्वै सरस्वती। वाचैव तद्वरुणोऽनुसमसर्पत्। तथोऽएवैष एतद्वाचैवानुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।७। अथ त्वाष्ट्रं दशकपालं पुरोडाशं निर्वपति। त्वष्टा वै रूपाणामीष्टे। त्वष्ट्रैव तद्रूपैर्वरुणोऽनुसमसर्पत्। तथोऽएवैष एतत्त्वष्ट्रैव रूपैरनुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।८। अथ पौष्णं चरुं निर्वपति। पशवो वै पूषा। पशुभिरेव तद्वरुणोऽनुसमसर्पत्। तथोऽएवैष एतत्पशुभिरेवानुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।९। अथैन्द्रमेकादशकपालं पुरोडाशं निर्वपति। इन्द्रियं वै वीर्यमिन्द्रः। इन्द्रियेणैव तद् वीर्येण वरुणोऽनुसमसर्पत्। तथोऽएवैष एतदिन्द्रियेणैव वीर्येणानुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।१०। अथ बार्हस्पत्यं चरुं निर्वपति। ब्रह्म वै बृहस्पतिः। ब्रह्मणैवैतद्वरुणोऽनुसमसर्पत्। तथोऽएवैष एतद्ब्रह्मणैवानुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।११। अथ वारुणं यवमयं चरुं निर्वपति। स येनैवौजसेमाः प्रजा वरुणोऽगृह्णात् तेनैव तदोजसा वरुणोऽनुसमसर्पत्। तेनोऽएवैष तदोजसाऽनुसंसर्पति। तत्रैकं पुण्डरीकं प्रयच्छति।१२। उपसदो दशम्यो देवताः। तत्र पञ्च पुण्डरीकाण्युपप्रयच्छति। तां द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते सा दीक्षा। तया दीक्षया दीक्षते।१३। अथ यद्द्वादश भवन्ति। द्वादश वै मासाः संवत्सरस्य। सर्वं वै सम्वत्सरः। सर्वेणैवैनमेतद्दीक्षयति। यानि पुण्डरीकाणि तानि दिवो रूपम्, तानि नक्षत्राणां रूपम्। ये वधकास्तेऽन्तरिक्षस्य रूपम्। यानि बिसानि तान्यस्यै । तदेनमेषु लोकेष्वधि दीक्षयति।१४। - मा.श. ५.४.५.६-१४

*मूर्तामूर्तब्राह्मणम् यथा पुण्डरीकम् मा.श. १४.५.३.१०

*षष्ठं हाजगाम। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः। तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो बभूव। - जै.ब्रा. १.४२

*किं षष्ठम् इति। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः। तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोष ऽभूद् इति। ओम् इति होवाच। ममैवैते लोका अभूवन्न इति। ते केनाभिजय्या इति। एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति। स होवाच न वै किलान्यत्राग्निहोत्राल् लोकजित्या अवकाशोऽस्ति। - जै.ब्रा. १.४४

*आपोऽमृतं पुरुषो ब्रह्माथाप्रियनिगमो भवति तस्माद्वै विद्वान् पुरुषमिदं पुण्डरीकमिति प्राण एष स पुरि शेते स पुरि शेते इति। पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते। - गो.ब्रा. १.१.३९

*द॒ह्रं॒ वि॒पा॒पं॒ व॒रवे॑श्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यसँ॒ँस्थम्। त॒त्रा॒पि॒ द॒ह्रे ग॒गनं॑ विशोकं॒ तस्मि॑न्यद॒न्तस्तदुपा॑सित॒व्यम्। - तै.आ. १०.१०.३

पुण्डरीकम् अष्टदलकमलं हृदयकमलम्। दह्रमल्पमङ्गुष्ठमात्रपरिमितत्वात् सायण भाष्य

*राजसूये दशपेयविधिः -- जा॒मि वा ए॒तत् कु॑र्वन्ति। यत्स॒द्यो दी॒क्षय॑न्ति स॒द्यः सोमं॑ क्री॒णन्ति॑। पु॒ण्ड॒रि॒स्र॒जां प्रय॑च्छ॒त्यजा॑मित्वाय। अङ्गि॑रसः सुव॒र्गं लो॒कं यन्तः॑। अ॒प्सु दी॑क्षात॒पसी॒ प्रावे॑शयन्। तत्(यत्?) पु॒ण्डरीक॑मभवत्। - तै.ब्रा. १.८.२

*सावित्रचयनम् अ॒रु॒णो॑ऽरु॒णर॑जाः पु॒ण्डरी॑को विश्व॒जिद॑भि॒जित्। आ॒र्द्रः पिन्व॑मा॒नोऽन्न॑वा॒न्रस॑वा॒निरा॑वान्। स॒र्वौ॒ध॒षः सं॑भ॒रो मह॑स्वान् (इति त्रयोदशमासनामान्युपदधाति)। - तै.ब्रा. ३.१०.१

*तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी छां.उ. १.६.७

*दहरं पुण्डरीकं वेश्म छां.उ. ८.१.१

*यत्पुण्डरीकं पुरमध्यसंस्थम् महानारायणोप. १०.७

*दहरं पुण्डरीकेति क्षुरोप. १०

*तदिदं पुरं पुण्डरीकम् नारदोप. ५

*यदिदं पुरं ब्रह्मपुरमिदं पुण्डरीकं वेश्म आत्मप्रबोधोप. १

*ब्रह्मण्यः पुण्डरीकाक्षः आत्मप्रबोधोप. १

*गोविन्द पुण्डरीकाक्ष वासुदेवोप. २

000webhost logo